तौ व्युपारमतां युद्धे वृष्णयस्ते च पार्थिवा:।
असक्तमभवद् युद्धं तेषामेवं सुदारुणम्।।31।।
दीर्घकालं महाराज निघ्नतामितरेतरम्।
पराजिते त्वपक्रान्ते जरासंधे महीपतौ।।32।।
अस्तं याते दिनकरे नानुसस्त्रु स्तदा निशि।
समानीय स्वकं सैन्यं लब्धलक्ष्या महाबला:।।33।।
पुरीं प्रविविशुर्हृष्टा्: केशवेनाभिपालिता:।
खाच्चयुपन्याययुधान्येवं तान्येमवान्तुर्दधुस्तमदा।।34।।
जरासंधोऽपि नृपतिर्विमना: स्वपुरीं ययौ।
राजानश्चानुगा येऽस्य स्व:राष्ट्राण्येव ते ययु:।।35।।