वैशम्पायन उवाच
स कृष्णयस्तत्र बलवान् रौहिणेयेन संगत:।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत्।।1।।
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभु:।।
चचार मथुरां प्रीत: सवनाकरभूषणाम्।।2॥
कस्यचित् त्वाथ कालस्य राजा रराजगृहेश्वर:।
सस्मार निहतं कंसं जरासंध: प्रतापवान्।।3।।
युद्धाय योजितो भूयो दुहितृभ्यांं महीपति:।
दश सप्त च संग्रामांञ्जरासंधस्यं यादवा:।
ददुर्न चैनं समरे हन्तुं शेकुर्महारथा:।।4।।
ततो मागधराट् श्रीमांश्चतुरंगबलान्वित:।
भूयोऽप्यष्टादशं कर्तुं संग्रामं स समारभत्।।5।।