वैशम्पायन उवाच
कृष्णेन ह्रियमाणां तां रुक्मी श्रुत्वार तु रुक्मिणीम्।
प्रतिज्ञामकरोत् क्रुद्ध: समक्षं भीष्मवकस्य ह।।1।।
रुक्म्यु वाच
अहत्वा् युधि गोविन्दामनानीय च रुक्मिणीम्।
कुण्डिनं न प्रवेक्ष्यावमि सत्यमेतद् ब्रवीम्यहम्।।2।।
आस्थाय स रथं वीर: समुदग्रायुधध्वजम्।
जवेन प्रययौ क्रुद्धो बलेन महता वृत:।।3।।
तमन्वयुर्नृपाश्चै व दक्षिणापथवर्तिन:।
क्राथोंऽशुमांछ्रुतर्वा च वेणुदारिश्चण वीर्यवान्।।4।।
भीष्मकस्य सुताश्चान्ये रथेन रथिनां वरा:।
क्रथकैशिकमुख्याश्च सर्व एव महारथा:।।5।।