वैशम्पायन उवाच
तौ नगादाप्लुपतौ दृष्ट्वा वसुदेवसुतावुभौ।
क्षुब्धं नवरानीकं सर्वं सम्मूढवाहनम्।।1।।
बाहुप्रहरणौ तौ तु चेरतुस्तत्र यादवौ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ।।2।।
ताभ्यां मृधे प्रविष्टा्भ्यां यादवाभ्यां मतिस्त्वभूत्।
आयुधानां पुराणानामादानकृतलक्षणा।।3।।
ततोऽम्बंरतलाद् भूय: पतन्ति स्मं महात्मनो:।
मध्ये राजसहस्रस्य समरं प्रतिकाङ्क्षिणो:।।4।।
यानि वै माथुरे युद्धे प्राप्ताान्यानहवशोभिनो:।
तान्यम्बरात् पतन्ति स्म दिव्यान्या्हवसम्प्लवे।।5।।