वैशम्पायन उवाच
एतस्मिन्नन्तरे प्राप्ता लोकप्रावृत्तिका नरा:।
चक्रायुधगृहं सर्वे लोकपालगृहोपमम्।।1।।
तेष्वात्ययिकशंसीषु लोकप्रावृत्तिकेष्विह।
कृतसंज्ञा यदुश्रेष्ठ: समेता: कृष्णासंसदि।।2।।
समागतेषु सर्वेषु यदुमुख्येषु संसदि।
प्रावृत्तिका नरा: प्राहु: पार्थिवात्ययिकं वच:।।3।।
जनार्दन नरेन्द्राणां पार्थिवानां समागम:।
भविष्यति क्षितीशानां समूढानामनेकश:।।4।।
त्वरितास्तत्र गच्छेन्ति नानाजनपदेश्वरा:।
कुण्डिने पुण्डरीकाक्ष भोजपुत्रस्य शासनात्।।5।।