वैशम्पाायन उवाच
महेन्द्र वचनं श्रुत्वा् नारदो वदतां वर:।
विविक्ते देवराजानमिदं वचनमब्रवीत्।।1।।
कामं प्रियाणि राजानो वक्ताव्या नात्र संशय:।
प्राप्तकालं तु वक्तव्यंर हितमप्रियमप्युत।।2।।
अनियुक्तिपुरोभागो न स्यादिति वदन्ति हि।
सुलोकगतितत्त्वज्ञो नयविज्ञानकोविद:।।3।।
कार्याकार्ये समुत्पन्ने परिपृच्छति मां भवान्।
यतस्तात: प्रवक्ष्यामि गृह्यतां यदि रोचते।।4।।
अनुक्तेनापि सुहृदा वक्तरव्यं जानता हितम्।
न्याय्यं च प्राप्तकालं च पराभवमनिच्छता।।5।।