वैशम्पायन उवाच
अन्धको नारदवच: श्रुत्वा तत्त्वेन भारत।
मन्द्रं पर्वतं गन्तुं मनो दग्धे महासुर:।।1।।
सोऽसुरान सुमहातेजा: समानीय महाबल:।
जगाम मन्दरं क्रुद्धो महादेवालयं तदा।।2।।
तं महाभ्रतिच्छंन्नं महौषधिसमाकुलम्।
नानासिद्ध समाकीर्णं महर्षिगण सेवितम्।।3।।
चन्दनागुरु वृक्षाढ्यं सरल द्रुमसंकुलम्।
किन्निरोद्गीतरम्यं बहुनागकुलाकुलम्।।4।।
वातोद्धूतैर्वनै: फुल्लैर्नृत्यन्तमिव च क्वेचित्।
प्रस्त्रुतैर्धातुभिश्चित्रैर्विलिप्तमिव च क्वसचित्।।5।।