वैशम्पायन उवाच
इत्येपवमुक्ते वचने सुनीथेन महात्मना।
करूषाधिपतिर्वीरो दन्तवक्त्रो अभ्यभाषत।।1।।
दन्तवक्त्र उवाच
यदुक्तं मागधेनात्र सुनीथेन नराधिपा:।
युक्तपूर्वमहं मन्येु यदस्मा्कं वचो हितम्।।2।।
न च विद्वेषणेनाहं न चाहंकारवादिना।
न चात्मविजिगीषुत्वादद् दूषयामि वचोऽमृतम्।।3।।
वाक्यामर्णवं महागाधं नीतिशास्त्रार्थबृंहितम्।
क एष निखिलं वक्तुंं शक्तो वै राजसंसदि।।4।।
किं त्वनुस्मारणार्थेऽहं यद् ब्रवीमि श्रृणुष्व् मे।
आगतो वासुदेवेति किमाश्चर्यं नराधिपा:।।5।।