वैशम्पायन उवाच
ततस्तूर्यनिनादैश्च शंखानां च महास्वनै:।
बन्दिमागधसूतानां स्तवैश्चापि सहस्रश:।।1।।
स तून्मुखैर्जयाशीर्भि: स्तू्यमानो हि मानवै:।
बभार रूपं सोमार्कशुक्राणां प्रतिमं तदा।।2।।
अतीव शुशुभे रूपं व्योम्नि तस्योत्पतिष्यत:।
वैनतेयस्य भद्रं ते बृंहितं हरितेजसा।।3।।
अथाष्टबाहु: कृष्णबस्तु पर्वताकारसंनिभ:।
विबभौ पुण्डरीकाक्षो विकांक्षन् बाणसंक्षयम्।।4।।
असिचक्रगदाबाणा दक्षिणं पार्श्ववमास्थिता:।
चर्म शारंग तथा वज्रं शंखं चैवास्य वामत:।।5।।