वैशम्पायन उवाच
कृते गर्भविधाने तु देवकी देवतोपमा।
जग्राह सप्त तान् गर्भान् यथावत् समुदाह्रतान् ।।1।।
षड्गर्भान् निस्सृतान् कंसस्तांजघान शिलातले।
आपन्नं सप्तमें गर्भं सा निनायाथ रोहिणीम्।।2।।
अर्धरात्रे स्थितं गर्भं पातयन्ती रजस्वला।
निद्रया सहसाऽऽविष्टा पपात धरणीतले।।3।।
सा स्वप्नमिव तं दृष्ट्वा गर्भं नि:सृतमात्मन:।
अपश्यन्ती च तं गर्भं मुहूर्तं व्यथिताभवत्।।4।।
तामाह निद्रा संविग्नां नैशे तमसि रोहिणीम्।
रोहिणीमिव सोमस्य वसुदेवस्य धीमत:।।5।।