वैशम्पायन उवाच
क्षिप्तं यदुवृषं दृष्ट्वा सर्वे ते यदुपुंगवा:।
निपीड्य श्रवणान् हस्तैर्मेनिरे तं गतायुषम्।।1।।
अन्धकोऽनुद्विग्नमना धैर्यादविकृतं वच:।
प्रोवाच वदतां श्रेष्ठ: समाजे कंसमोजसा।।2।।
अश्लाघ्यो मे मत: पुत्र तवायं वाक्परिश्रम:।
अयुक्तो गर्हित: सद्भिर्बान्धवेषु विशेषत:।।3।।
अयादवो यदि भवांछृणु तावद् यदुच्यते।
न हि त्वां यादवं वीर बलात् कुर्वन्ति यादवा:।।4।।
अश्लाघ्या वृष्णय: पुत्र येषां त्वमनुशासिता।
इक्ष्वाकुवंशजो राजा विनिवृत्त: स्वयं सकृत्।।5।।