नारायणं नमस्कृत्यं नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।
वैशम्पायन उवाच
ज्ञात्वा विष्णुं क्षितिगतं भागांश्च त्रिदिवौकसाम।
विनाशशंसी कंसस्य नारदो मथुरां ययौ।।1।।
त्रिविष्टपादापतितो मथुरोपवने स्थित:।
प्रषयामास कंसस्य दूतं स मुनिपुंगव:।।2।।
स दूत: कथयामास मुनेरागमनं वने।
स नारदस्यागमनं श्रुत्वा त्वरितविक्रम:।।3।।
निर्जगामासुर: कंस: स्वपुर्या: पद्मलोचन: ।
स ददर्शातिथिं श्लाघ्यं देवर्षि तीतकल्मषम्।।4।।
तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम्।
सोऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि।।5।।