वैशम्पायन उवाच
गते शक्रे तत: कृष्ण: पूज्यमानो व्रजालयै:।
गोवर्धनधर: श्रीमान् विवेश व्रजमेव ह।।1।।
तस्य वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिता:।
धन्या: स्मोऽनुगृहीता: समस्त्वद्वृत्तेन नयेन च।।2।।
गावो वर्षभयात् तीर्णा वयं तीर्णा महाभयात्।
तव प्रसादाद् गोविन्द देवतुल्यपराक्रम।।3।।
अमानुषाणि कर्माणि तव पश्याम गोपते।
धारणेनास्य शैलस्य विद्मस्त्वां कृष्ण दैवतम्।।4।।
कस्त्वं भवसि रुद्राणां मरुतां च महाबल:।
वसूनां वा किमर्थं च वसुदेव: पिता तव।।5।।