वैशम्पायन उवाच
तयो: प्रवृत्तयोरेवं कृष्णस्य च बलस्य च।
वने विचरतोर्मासौ व्यतियातौ स्म वार्षिकौ।।1।।
व्रजमाजग्मतुस्तौ तु व्रजे शुश्रुवतुस्तदा।
प्राप्तं शक्रमहं वीरौ गोपांश्चोत्सवलालसान्।।2।।
कौतूहलादिदं वाक्यं कृष्ण: प्रोवाच तत्र तान्।
कोऽयं शक्रमहो नाम येन वो हर्ष आगत:।।3।।
तत्र वृद्धतमस्त्वैको गोपो वाक्यमुवाच ह।
श्रूयतां तात शक्रस्य यदर्थं ध्वज इज्यते।।4।।
देवानामीश्वर: शक्रो मेघानां चारिसूदन।
तस्य चायं मह: कृष्ण लोकनाथस्य शाश्वत:।।5।।