वैशम्पायन उवाच
तत: काले व्यतीते तु रुक्मी महति वीर्यवान्।
दुहितु: कारयामास स्वयंवरमरिंदम्:।।1।।
तत्राहूता हि राजानो राजपुत्राश्च रुक्मिणा।
समाजग्मुर्महावीर्या नानादिग्भ्य: श्रियान्विता:।।2।।
तत्राजगाम प्रद्युम्न: कुमारैरपरैर्वृत: ।
सा हि तं चकमे कन्या स च तां शुभलोचनाम्।।3।।
शुभांगी नाम वैदर्भी कान्तिद्युतिसमन्विता।
पृथिव्यामभवत् ख्याता रुक्मिणस्त्नया तदा।।4।।
उपविष्टेनषु सर्वेषु पार्थिवेषु महात्मसु।
वैदर्भी वरयामास प्रद्युम्न मरिसूदनम्।।5।।