वैशम्पायन उवाच
दामोदरवच: श्रुत्वा ह्रष्टास्ते गोषु जीविन:।
तद्वागमृतमासाद्य प्रत्यूचुरविशंकया।।1।।
तवैषा बाल महती गोपानां हितवर्द्धिनी।
प्रीणयत्येव न: सर्वान् बुद्धिर्वृद्धिकरी गवाम्।।2।।
त्वं गतिस्त्वं रश्चिैव त्वं वेत्ता त्वं परायणम्।
भयेष्वभयदस्त्वं नस्त्वमेव सुह्रदां सुह्रत्।।3।।
त्वत्कृते कृष्ण घोषोअयं क्षेमी मुतिदगोकुल:।
कृत्स्न्नो वसति शान्तारिर्यथा स्वर्गं गतस्तथा।।4।।
जन्मप्रभृति कर्मैतद् दवैरसुकरं भुवि।
बोद्धव्याच्चाभिमानाच्च विस्मितानि मनांसि न:।।5।।