वैशम्पायन उवाच
ततस्ते त्वरिता: सर्वे त्रयस्त्रय इवाग्नय:।
वैनतेयमथारुह्य युध्यमाना रणे स्थिता:।।1।।
तत: सर्वाण्यनीकानि बाणवर्षैरवाकिरन्।
अर्दयन् वैनतेयस्था नदन्तोऽतिबलाद् रणे।।2।।
चक्रलांगलपातैश्च बाणवर्षैश्च पीडितम्।
संचुकोप महानीकं दानवानां दुरासदम्।।3।।
कक्षेऽग्निरिव संवृद्ध: शुष्के न्धिनसमीरित:।
कृष्णऽबाणाग्निरुद्भूतो विवृद्धिं परमां गत:।।4।।
दानवानां सहस्राणि तस्मिन समरमूर्धनि ।
युगान्ताग्निरि वार्चिष्मान् दहमानो व्यराजत।।5।।