वैशम्पायन उवाच
ततो युद्धानि वृष्णीानां बभूवु: सुमहान्त्यथ।
मागधस्य् महामात्रैर्नृपैश्चैयवानुयायिभि:।।1।।
रुक्मिणा वासुदेवस्य भीष्मकेणाहुकस्य च।
क्रथेन वसुदेवस्य कैशिकस्य तु बभ्रुणा।।2।।
गदेन चेदिराजस्य दन्तवक्त्रस्य शंकुना।
तथान्यैवर्वृष्णिवीराणां नृपाणां च महात्मनाम्।।3।।
युद्धमासीद्धि सैन्यानां सैनिकैर्भरतर्षभ।
अहानि पंच चैकं च षट् सप्ताष्टौ च दारुणम्।।4।।
गजैर्गजा हयैरश्वा: पदाताश्च पदातिभि:।
रथै रथा विमिश्राश्च् योधा युयुधिरे नृप।।5।।