वैशम्पायन उवाच
प्रविशन्तुं तु वेगेन मारुतावल्गिताम्बरम्।
पूर्वजं पुरत: कृत्वा कृष्णं कमललोचनम्।।1।।
गजदन्तकृतोल्लेखं सुभुजं देवकीसुतम्।
लीलाकृतांगदं वीरं मदेन रुधिरेण च।।2।।
वल्गमानं यथा सिंहं व्यूहमानं यथा घनम्।
बाहुशब्दप्रहारेण चालयन्तं वसुंधराम्।।3।।
औग्रसेनि: समालोक्य दन्तिदन्तोद्यतायुधम्।
कृष्णं भृशायस्तमुख: सरोषं समुदैक्षत।।4।।
भुजासक्तेन शुशुभे गजदन्तेन केशव:।
चन्द्रार्धबिम्बसंसक्तो यथैकशिखरो गिरि:।।5।।