वैशम्पायन उवाच
एवं कथयमानं तं शाल्वचराजं नृपाज्ञया।
उवाच परमप्रीतो यवनाधिपतिर्नृप:।।1।।
कालयवन उवाच
धन्योऽस्यधनुगृहीतोऽस्मि सफलं जीवितं मम।
कृष्णनिग्रहहेतोर्यन्नियुक्तोय बहुभिर्नृपै:।।2।।
दुर्जयस्त्रिषु लोकेषु सुरासुरगणैरपि।
तस्य निग्रहहेतोर्मामवधार्य जयाशिषम्।।3।।
प्रहृष्टै् राजसिंहैस्तैरवधार्यो जयो मम।
तेषां वाचाम्बुनवर्षेण विजयो मे भविष्ययति।।4।।
करिष्ये वचनं तेषां नृपसत्तमचोदितम्।
पराजयोऽपि राजेन्द्र जयेन सदृशो मम।।5।।