जनमेजय उवाच
भगवंछ्रोतुमिच्छामि विस्तरेण महात्मन:।
चरितं वासुदेवस्य यदुश्रेष्ठस्यत धीमत:।।1।।
किमर्थं च परित्यज्य मथुरां मधुसूदन:।
मध्यदेशस्यह ककुदं धाम लक्ष्याश्च केवलम्।।2।।
श्रृगं पृथिव्या: स्व लक्ष्यं: प्रभूतधनधान्यवत्।
आर्याढ्यजलभूयिष्ठयमधिष्ठानवरोत्तमम्।।3।।
अयुद्धेनैव दाशार्हस्यक्तवान् द्विजसत्ताम।
स कालयवनश्चापि कृष्णे किं प्रत्यलपद्यत।।4।।
द्वारकां च समासाद्य वारिदुर्गां जनार्दन:।
किं चकार महाबाहुर्महायोगी महातपा:।।5।।