वैशम्पायन उवाच
गोपवृद्धस्य वचनं श्रुत्वा शक्रपरिग्रहे।
प्रभवज्ञोअपि शक्रस्य वाक्यं दामादोऽब्रवीत्।।1।।
वयं वनचरा गोपा: सदा गोधनजीविन:।
गावोऽस्मद्दैवतं विद्धि गिरयश्च वनानि च।।2।।
कर्षुकाणां कृषिर्वृत्ति: पण्यं विपणिजीविनाम्।
गावोऽस्माकं परा वृत्तिरेतत् त्रैविद्यमुच्यते।।3।।
विद्यया यो यया युक्तस्तस्य सा दैवतं परम्।
सैव पूज्यार्चनीया च सैव तस्योपकारिणी।।4।।
योऽन्यस्य फलमश्नान: करोत्यन्यस्य सत्क्रियाम्।
द्वावनर्थौ स लभते प्रेत्य चेह च मानव:।।5।।