वैशम्पायन उवाच
नारायण: सत्यभामां पुनरेवैष भारत।
प्रोवाच प्रणयात् क्रुद्धामभिमानवतीं सतीम।।1।।
श्रीभगवानुवाच
दहतीव ममांगानि शोक: कमललोचने।
किमु तत् कारणं येन त्वचमेवमतिविक्लवा।।2।।
शापितासि मम प्राणैराचक्ष्वाणनन्योे यदि।
श्रोतव्यं यदि भक्तेन भर्त्रा सर्वांगशोभने।।3।।
तत: प्रोवाच भर्तारं सत्याे सत्यवव्रते स्थितम।
वाष्पवगद्गदया वाचा तथैवाधोमुखी स्थिता।।4।।
त्वयैव स्थापितं पूर्वं सौभाग्यं मम मानद।
जगत्यवमलपत्राक्ष यत् ख्याभतं केशिनाशन।।5।।