वैशम्पायन उवाच
समाप्तामायो मायाज्ञो विक्रान्त: समरेऽव्यय:।
अष्ट्म्यां निहतो युद्धे मायावी कालशम्बर:।।1।।
तमृक्षवन्ते नगरे निहत्यातसुरसत्तमम्।
गृह्य मायावतीं देवीमागच्छन्नगरं पितु:।।2।।
सोऽन्तरिक्षगतो भूत्वा मायावी शीघ्रविक्रम:।
आजगाम पुरीं रम्यां रक्षितां तेजसा पितु:।।3।।
सोऽन्तपरिक्षान्निपतित: केशवान्त: पुरे शिशु:।
मायावत्या सह तया रूपवानिव मन्मथ:।।4।।
तस्मिंस्तत्रावपतिते महिष्य: केशवस्य या:।
विस्मिताश्चैव हृष्टाश्च भीताश्चैवाभवंस्तत:।।5।।