वैशम्पायन उवाच
महे प्रतिहते शक्र: सक्रोधस्त्रिदशेश्वर:।
संवर्तकं नाम गणं तोयदानामथाब्रवीत्।।1।।
भो बलाहकमातंगा: श्रूयतां मम भाषितम्।
यवि वो मत्प्रियं कार्यं राजभक्तिपुरस्कृतम्।।2।।
एते वृन्दावनगता दामोदरपरायणा:।
नन्दगोपादयो गापा विद्विषन्ति ममोत्सवम्।।3।।
आजीवो य: परस्तेषां गोपत्वं च यत: स्मृतम्।
ता गाव: सप्तरात्रेण पीडयन्तां वर्षमारुतै:।।4।।
ऐरावतगतश्चाहं स्चयमेवाम्बु दारुणम्।
स्त्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम्।।5।।