वैशम्पायन उवाच
तत: प्रभाते विमले भास्करे उदिते तदा।
कृतजाप्यो हृषीकेशो वनान्ते निषसाद ह।।1।।
परिचक्राम तं देशं दुर्गस्थानदिदृक्षया।
उपतस्थु: कुलाप्राग्या यादवा यदुनन्दिनम्।।2।।
रोहिण्यामहनि श्रेष्ठेन स्वस्ति वाच्य द्विजोत्तिमान्।
पुण्याहघोषैर्विपुलैर्दुर्ग स्यारब्धावान् क्रियाम्।।3।।
तत: पंकजपत्राक्षो यादवान् केशिसूदन:।
प्रोवाच वदतां श्रेष्ठो देवान् वृत्ररिपुर्यथा।।4।।
कल्पितेयं मया भूमि: पश्वध्वंध देवसद्मवत्।
नाम चासया: कृतं पुर्या: ख्यांति यदुपयास्यति।।5।।