वैशम्पायन उवाच
अथ विष्णुर्महातेजा मुहूर्ताभ्युदिते रवौ।
मृगयाव्युपदेशेन ययौ रैवतकं गिरिम्।।1।।
आरोप्यैकरथे देव: सात्यकिं नरपुंगवम्।
प्रद्युम्नयमनुगच्छेयति प्रोक्त्वा कुरुकुलोद्वह।।2।।
रैवतं च गिरिं देवा गत्वाे दारुकमब्रवीत्।
मदीयं रथमेनं त्वं ग्रहायेहैव दारुक।।3।।
प्रतिपालय मां सौम्य दिनार्द्ध वारयन् हरीन्।
रथेनैव प्रवेष्टाहं द्वारकां सूतसत्तम।।4।।
इति संदिश्य भगवानारुरोह जयोद्यत:।
तार्क्ष्यं ससात्यको धीमानप्रमेयपराक्रम:।।5।।