वैशम्पायन उवाच
यदा बाणपुरे वीर: सोऽनिरुद्ध: सहोषया।
संनिरुद्धो: नरेन्द्रेण बाणेन बलिसूनुना ।।1।।
तदा देवी कोटवतीं रक्षार्थं शरणं गत।
यद् गीतमनिरुद्धेन देव्या: स्तोत्रमिदं श्रृणु ।।2।।
अनन्तमक्षयं दिव्यंमादिदेवं सनातनम्।
नारायणं नमस्कृत्यं प्रवरं जगतां प्रभुम्।।3।।
चण्डींं कात्यायनीं देवीमार्यां लोकनमस्कृताम्।
वरदां कीर्तयिष्यामि नामभिर्हरिसंस्तुतै:।।4।।
ऋषिभिर्दैवतैश्चैव वाक्पुरष्पैरर्चितां शुभाम्।
तां देवी सर्वदेहस्थां सर्वदेवनमस्कृताम्।।5।।