जनमेजय उवाच
प्रादुर्भावे मुनिश्रेष्ठ माथुरे चरितं शुभम्।
श्रृण्वन्नैवाधिगच्छामि तृप्तिं कृष्णस्य धीमत:।।1।।
द्वारकायां निवसत: कृतदारस्य षड्गुणम्।
चरितं ब्रूहि कृष्णस्य सर्वं हि विदितं तव।।3।।
वैशम्पायन उवाच
जनमेजय कृष्णस्य कृतदारस्य भारत।
निबोध चरितं चित्रं तस्यैव सदृशं प्रभो।।3।।
प्राप्तदरो महातेजा वासुदेव: प्रतापवान्।
रुक्मिण्या सहितो देव्या ययौ रैवतकं नृप।।4।।
उपवासावसानं हि रुक्मिण्या: प्रतिपूजयन्।
तर्पयिष्यन् स्वयं विप्रांञ्जगाम मधुसूदन:।।5।।