वैशम्पायन उवाच
एवं तौ बाल्यमुत्तीर्णौ कृष्णसंकर्षणावुभौ।
तस्मिन्नेव व्रजस्थाने सप्तवर्षौ बभूवतु:।।1।।
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ।
बभूवतुर्वत्सपालौ काकपक्षधरावुभौ।।2।।
पर्णवाद्ययं श्रुतिसुखं वादयन्तौ वराननौ।
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ।।3।।
मायूरांगदकर्णौ तु पल्लवापीधारिणौ।
वनमालाकुलोरस्कौ द्रुमपोताविवाद्गतौ।।4।।
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ।
सशिक्यतुम्बकरकौ गोपवेणुप्रवादकौ।।5।।