वैशम्पायन उवाच
आविष्टेयं मया बाला सर्वथेत्यवगम्य तु।
कार्ष्णिर्हृष्टेन मनसा हंसीमिदमुवाच ह।।1।।
दैत्येन्द्रतनयां प्राप्तमवगच्छस्व मामिह।
षट्पदै: सह षट्पादो भूत्वा माल्ये निलीय हि।।2।।
विधेयाअस्मि प्रभावत्या यथेष्टं मयिवर्तताम्।
इत्युक्त्वा दर्शयामास सुरूपो रूपमात्मन:।।3।।
तद्धर्म्यपृष्ठं प्रभया द्योतितं तस्य धीमत:।
अभिभूता प्रभा चैव राजंश्चन्द्रोद्भवा शुभा।।4।।
प्रभावत्यास्तु तं दृष्ट्वा ववृधे कामसागर:।
चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पति:।।5।।