भीष्मक उवाच
पुत्रो मे बालभावेन भगिनीं दातुमिच्छति।
स्वयंवरे नरेन्द्राणां न चाहं दातुमुत्सहे।।1।।
अतीव बालभावत्वाद् दातुमिच्छेन्मतिर्मम।
एका ह्येकं समालोक्य वरयिष्यति मे मति:।।2।।
अत: प्रसादयिष्ये त्वां पुत्रदुर्नयहेतुना।
प्रसादं कुरु देवेश क्षन्तुमर्हसि मे प्रभो।।3।।
श्रीकृष्ण उवाच
बालभावेन पुत्रेण चालितं नृपमण्डमलम्।
यदा भवति वै प्रौढ: कीदृशोऽविनयो भवेत्।।4।।
सूर्येन्दुसदृशॉल्लोककांस्तपसोपार्जितश्रिय:।
लोकेऽस्मिन् नरदेवानां महाकुलसमुद्भवान्।।5।।