वैशम्पायन उवाच
निहत्या नरकं भौमं वासवोपमविक्रमम्।
वासवावरजो विष्णुकर्ददर्श नरकालयम्।।1।।
अथार्थगृहमासाद्य नरकस्य जनार्दन:।
ददर्श धनमक्षय्यं रत्नायनि विविधानि च।।2।।
मणिमुक्ताकप्रवालानि वैदूर्यस्या च संचयान।
मासारगल्वकूटानि सतथा वज्रस्य संचयान।।3।।
जाम्बूनदमयान्यस्य शातकुम्भमयानि च।
प्रदीप्तज्वयलनाभानि शीतरश्मनिभानि च।।4।।
शयनानि महार्हाणि तथा सिंहासनानि च।
हिरण्य दण्डतरुचिरं शीतरश्मिसमप्रभम्।।5।।