वैशम्पायन उवाच
अथ तौ जातहर्षौ तु वसुदेवसुतावुभौ।
तत् तालवनमुत्सृज्य भूयो भाण्डीरमागतौ।।1।।
चारयन्तौ विवृद्धानि गोधनानि शुभानि च।
स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च।।2।।
क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान्।
नामभिर्व्याहरन्तौ च सवत्सा गा: परंतपौ।।3।।
निर्योगपाशैरासक्तै: स्कन्धाभ्यां शुभलक्षणौ।
वनमालाकलोरस्कौ बालश्रृंगविवर्षभौ।।4।।
सुवर्णांञ्जनचूर्णाभावन्योन्यसदृशाम्बरौ ।
महेन्द्रायुधसंसक्तौ शुक्लकृष्णाविवाम्बुदौ।।5।।