वैशम्पायन उवाच
ददर्शाथ पुरीं कृष्णोे द्वारकां गरुडे स्थित:।
देसद्मप्रतीकाशां समन्तात प्रतिनादिताम।1।।
मणिपर्वतयन्त्रांणि तथा क्रीडागृहाणि च।
उद्यानवनमुख्यानि वलभीचत्वराणि च।।2।।
सम्प्राप्ते तु तदा कृष्णे पुरीं देवकिनन्दने ।
विश्वरकर्माणमाहूय देवराजोऽब्रवीदिदम्।।3।।
प्रियमिच्छखसि चेत् कर्तुं मह्यं शिल्पवतां वर ।
कृष्णमप्रियार्थं भूयस्वं प्रकुरुष्व मनोहराम्।।4।।
उद्यानशतसम्बाधां द्वारकां स्वर्गसम्मिताम।
कुरुष्व विवुधश्रेष्ठ यथा मम पुरी तथा।।5।।