वैशम्पायन उवाच
ते कृष्णमागतं दृष्ट्वाच वैनतेयसहाच्युतम्।
वभूवुश्चिन्तयाविष्टाव: सर्वे नृपतिसत्तपमा:।।1।।
ते समेत्य सभां राजन् राजानो भीमविक्रमा:।
मन्त्राय मन्त्रकुशला नीतिशास्त्रार्थवित्तमा:।।2।।
भीष्मकस्य सभां गत्वा रम्यां हेमपरिष्कृाताम्।
सिंहासनेषु चित्रेषु विचित्रास्तरणेषु च।
निषेदुस्ते नृपवरा देवा देवसभामिव।।3।।
तेषां मध्येे महाबाहुर्जरासंधो महाबल:।
बभाषे स महातेजसा देवान् देवेश्वरो यथा।।4।।
जरासंध उवाच
श्रूयतां भो नृपश्रेष्ठा भीष्मकश्च महामति:।
कथ्यमानं मया बुद्धया वचनं वदतां वरा:।।5।।