वैशम्पामयन उवाच
अत्राश्चर्यात्मकं स्तोत्रमाह्निकं जयतां वर।
प्रद्युम्ने द्वारकां प्राप्ते हत्वा तं कालशम्बरम्।।1।।
बलदेवेन रक्षार्थं प्रोक्तामाह्निकमुच्यते।
यज्जवप्वा तु नृपश्रेष्ठ सायं पूतात्मपतां व्रजेत्।।2।।
कीतितं बलदेवेन विष्णुना चैव कीर्ततम्।।3।।
धर्मकामैश्च मुनिभिर्ऋषिभिश्चापि कीर्तितम्।।
कर्हिचिद् रुक्मिणीपुत्रो हलिना संयुतो गृहे।
उपविष्ट: प्रणम्याथ तमुवाच कृतांजलि:।।4।।
प्रद्युम्न उवाच
कृष्णानुज महाभाग रोहिणीतनय प्रभो।
किंचित् स्तोत्रं मम ब्रूहि यज्जप्त्वानिर्भयोऽभवम्।।5।।