वैशम्पायन उवाच
तत्रस्था: परमा नायश्चित्रेण परमाद्भुता:।
ततो हर्म्ये शयानां तु वैशाखे मासि भामिनीम्।।1।।
द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा।
यथोक्त्: पुरुष: स्वप्ने रमयामास तां शुभाम्।।2।।
विचेष्टमाना रुदती देव्या वचनचोदिता।
सा स्वप्ने रमिता तेन स्त्रीभावं चापि लम्भिता।।3।।
शोणिताक्ताे प्ररुदती सहसैवोत्थिता निशि।
तां तथा रुदतीं दृष्ट्वा सखी भयसमन्विता।।4।।
चित्रलेखा वच: स्निग्धामुवाच परमाद्भुतम्।
उषे मा भै: किमेवं त्वं रुदती परितप्यसे।
बले: सुतसुता च त्वंं प्रख्यारता किं भयान्विता।।5।।