अर्जुन उवाच
तत: पर्वतजालानि सरितश्च वनानि च।
अपश्यं समतिक्रम्य सागरं वरुणालयम्।।1।।
ततोऽर्घ्यमुदधि: साक्षादुपनीय जनार्दनम्।
स प्रांञ्जलि: समुत्थाय किं करोमीति चाब्रवीत्।।2।।
प्रतिगृह्य स तां पूजां तमुवाच जनार्दन:।
रथपन्थानमिच्छांमि त्वया दत्तं नदीपते।।3।।
अथाब्रवीत् समुद्रस्तु प्राञ्जलिर्गरुडध्वजम्।
प्रसीद भगवन् नैवमन्योऽप्येंवं गमिष्यति।।4।।
त्वयैव स्थापित: पूर्वमगाधोऽस्मि जनार्दन।
त्वया प्रवर्तिते मार्गे यास्यामि गमनायताम्।।5।।