वैशम्पायन उवाच
स कृष्णस्तत्र बलवान् रौहिणेयेन संगत:।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत्।।1।।
प्राप्तयौवनदेहस्तु यक्तो राजश्रिया ज्वलन्।
चचार मथुरां वीर: स रत्नाकरभूषणाम्।।2।।
कस्यचित् त्वथ कालस्य सहितौ रामकेशवौ।
गुरुं सान्दीपनिं काश्यमवन्तिपुरवासिनम्।।3।।
धनुर्वेदचिकीर्षार्थमुभौ तावभिजग्मतु:।
निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलंकृतौ।।4।।
शुश्रुषू निरहंकारवुभौ रामजनार्दनौ।
प्रतिजग्राह तौ काश्यो विद्या: प्रादाच्च केवला:।।5।।