जनमेजय उवाच
प्रत्येत्य द्वारकां विष्णुरर्हते रुक्मिणि वीर्यवान्।
अकरोद् यन्मबहाबाहुस्तरन्मे वद महामुने।।1।।
वैशम्पायन उवाच
स तै: परिवृत: श्रीमान् पुरीं यादवनन्दन:।
द्वारकां भगवान् विष्णु: प्रत्यवैक्षत वीर्यवान्।।2।।
प्रत्यापद्यत रत्नानि विविधानि वसूनि च।
यथार्हं पुण्डपरीकाक्षो नैर्ऋतान् प्रत्यरवारयत्।।3।।
तत्र विघ्नं चरन्ति स्म दैतेया: सह दानवै:।
ताञ्जघान महाबाहुर्वरदृप्ता न् महासुरान्।।4।।
विघ्नंन चास्यापकरोत् तत्र नरको नाम दानव:।
त्रासन: सर्वदेवानां देवराजरिपुर्महान्।।5।।