तेन संचोदिता मेघास्तस्य चायुधभूषिता:।
तस्यैवाज्ञाकरा: सस्यं जनयन्ति नवाम्बुभि:।।6।।
मेघस्य पयसो दाता पुरुहूत: पुरंदर:।
समप्रह्रष्ट: स भगवान् प्रीणयत्यखिलं जगत्।।7।।
तेन सम्पादितं सस्यं वयमन्ये च मानवा:।
वर्तयामोपयुंजानास्तर्पयामश्च देवता:।।8।।
देवे वर्षति लोकेऽस्मिस्तत: सस्यं प्रवर्धते।
पृथिव्यां तर्पितायां तु सामृतं लक्ष्यते जगत्।।9।।
क्षीरवत्यस्त्विमा गावो वत्सवत्यश्च निर्वृता:।
तेन संवर्धितैस्तात तृणै: पुष्टा: सपुंगवा:।।10।।