अथापश्यद् गदायुद्धे विशेषं तस्य वीर्यवान्।
राम: क्रुद्धो गदां त्येकत्वाहल जग्राह मुसलोत्तमम्।।26।।
तमुद्यन्तं तदा दृष्ट्वा मुसलं घोरदर्शनम्।
अमोघं बलदेवेन क्रुद्धेन तु महारणे।।27।।
ततोऽन्तरिक्षे वागासीत् सुस्वंरा लोकसाक्षिणी।
उवाच बलदेवं तं समुद्यतहलायुधम्।।28।।
न त्वया राम वध्योयऽयमलं खेदेन मानद।
विदितोऽस्यं मया मृत्युस्तस्मात् साधु व्युपारम।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागध:।।29।।
जरासंधस्तुं तच्छ्रुंत्व विमना: समपद्यत।
न प्रजह्रे ततस्तस्मै् पुनरेव हलायुध:।।30।।