जरासंधं तु ते जित्वा मेनिरे नैव निर्जितम्।
वृष्णधय: कुरुशार्दूल राजा ह्यतिबल: स वै।।36।।
दश चाष्टौ च संग्रामांञ्जरासंधस्य यादवा:।
ददुर्न चैनं समरे हन्तुं शेकुर्महाबला:।।37।।
अक्षौहिण्यंश्च तस्यासन् विंशतिश्च महामते।
जरासंधस्य नृपतेस्तदर्थं या: समागता:।।38।।
अल्पत्वादिभिभूतास्तु वृष्णयो भरतर्षभ।
बार्हद्रथेन राजेन्द्र राजभि: सहितेन वै।।39।।
जित्वा् तु मागधं संख्ये जरासन्धं महीपतिम्।
विहरन्ति स्म सुखिनो वृष्णिसिंहा महारथा:।।40।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि जरासंधापयानं नाम षट्त्रिंशोऽध्याय:।