हस्तोच्छ्रितमुखा वन्या मेघनादानुसारिण:।
भ्रान्तातिवृष्ट्या मातंगा गां गता इव तोयदा:।।21।।
प्रावृट्प्रवृत्तिं संदृश्य दृष्ट्वा चाम्बुधरान् घनान्।
रौहिणेयो मिथ: काले कृष्णं वचनमब्रवीत्।।22।।
पश्य कृष्ण घनान् कृष्णान् बलाकोज्जवलभूषणान्।
गगने तव गात्रस्य वर्णचोरान् समुच्छ्रितान्।।23।।
तव निद्राकर: कालस्तव गात्रोपमं नभ:।
त्वमिवाज्ञातवसतिं चन्द्रो वसति वार्षिकीम्।।24।।
एतन्नीलाम्बुदश्यामं नीलोत्पलदलप्रभम्।
सम्पाप्ते दुर्दिने काले दुर्दिनं भाति वै नभ:।।25।।