इति संस्तूयमानस्तु भगवान् वृषभध्वज:।
दर्शयामास धर्मात्मा कश्यपं धर्मधृग्वृरम्।।61।।
उवाच चैनं देवेश: प्रसन्नेनान्तरात्मना।
येन संस्तौषि कार्येण त्वं तज्जाने प्रजापते।।62।।
इन्द्रोपेन्द्रौ महात्मावनौ देवौ प्रकृतिमेष्यत:।
पारिजातं तु धर्मात्मा नयिष्यति जनार्दन:।।63।।
अपध्यातो महेन्द्रोे हि मुनिना देवशर्मणा।
अस्याकाङ्क्षत् पुरा भार्या तपोदीप्तस्य कश्यप।।64।।
गम्यतां तत्र धर्मज्ञ दाक्षायण्या सह त्वया।
अदित्या शक्रसदनं श्रेयस्ते पुत्रयोर्ध्रुवम्।।65।।
इति हरवचनं निशम्य विद्वान् कमलभवात्मोजसूनुरप्रमेय:।
त्रिदशगणगुरुं प्रणम्यर रुद्रं मुदितमना: सुमनौकसं जगाम्।।66।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे कश्यपकृतरुद्रस्तोत्रे द्विसप्तपतितमोऽध्याय:।