वर्जयित्वा महादेवौ सगणौ यदुनन्दन।
मां चान्यशस्तद्वनं दिव्यं न प्रयाति कथंचन।।21।।
स्त्रवन्ति तत्र वार्ष्णेय पारिजाता: समन्तत:।
सर्वरत्नानि मुख्यानि मनसा कांक्षितानि वै।।22।।
गणास्तानन्युनपभुंजन्ति प्रवराणां महात्मनाम्।
आज्ञया देवदेवस्य लोकनाथस्य केशव।।23।।
पारिजाताद् बहुगुणं फलं तेषां तथा वनम्।
अभिमानं प्रभाश्चैंव गुणा भूरिगुणास्तथा।।24।।
मूर्तिमन्तरश्च ते वृक्षा: सोमं देवं वृषभध्वजम्।
उपतिष्ठन्ति सततं प्रवरै: सह केशव।।25।।