तथास्त्विति वरो दत्तो महादेवेन चानघ।
न च नीत: पारिजातो मन्दरं चित्रकन्दरम्।।16।।
क्रीडावृक्ष: स शच्येति व्येपदेशेन मोक्षित:।
महेन्द्रेण महाबाहो पारिजातस्तत: पुरा।।17।।
प्रियार्थमुमया साक्षात् पारिजातवनं हर:।
गव्यूातिशतविस्तीर्णं मन्दरस्यैव कन्दरम्।।18।।
न तत्र सूर्यभा: कृष्ण प्रविशन्ति नगोत्तमे।
न च चन्द्रप्रभा शीता नैव कृष्ण सदागति:।।19।।
शीतोष्णे छन्दतस्तत्र शैलपुत्र्या भवन्ति हि।
स्वोयंप्रभं वनं तद्धि महादेवस्य तेजसा।।20।।