पदातय: पदातींश्च शक्तिचर्मासिपाणय:।
छिन्द्न्तपश्चोंत्तमांगानि विचरुर्युधि ते पृथक्।।79।।
असीनां पात्यमानानां कवचेषु महास्वन:।
शराणां पततां शब्द: पक्षिणामिव शुश्रुवे।।80।।
भेरीशंखमृदंगानां वेणूनां च मृधे ध्वनिम्।
जुगूह घोष: शस्त्राणां ज्यावघोषश्च महात्मधनाम्।।81।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीहरणे एकोनषष्टितमोऽध्यावय:।