तं बिभेदाष्टभि: क्रुद्धो नाराचैर्मुसलायुध:।
चिच्छेेद चास्य भल्लेन ध्वरजं हेमपरिष्कृितम्।।76।।
तद् युद्धमभवद् घोरं तेषां देवासुरोपमम्।
सृजतां शरवर्षाणि निघ्नषतामितरेतरम्।।77।।
गजैर्गजा हि संक्रुद्धा: संनिपेतु: सहस्रश:।
रथै रथाश्च संरब्धा: सादिनश्चाहपि सादिभि:।।78।।